(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.48. अध्यायः 048
Mahabharata - Shalya Parva - Chapter Topics
देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम्॥ 1 ॥ बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च॥ 2 ॥


Mahabharata - Shalya Parva - Chapter Text

जनमेजय उवाच। 9-16-0x(5199)(62960)
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः।
अभिषेकं कुमारस्य विस्तरेण यथाविधि॥ 9-16-1(62961)
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम॥ 9-16-2(62962)
अभिषेकं कुमारस्य दैत्यानां च वधं तथा।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे॥ 9-16-3(62963)
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः।
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम॥ 9-16-4(62964)
वैशम्पायन उवाच। 9-16-5x(5200)
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत्॥ 9-16-5(62965)
आदौ कृतयुगे राजन्वर्तमाने यथाविधि।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन्॥ 9-16-6(62966)
यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा।
तथा त्वमपि सर्वासां सरितां वै पतिर्भव॥ 9-16-7(62967)
वासश्च ते सदा देव सागरे मकरालये।
समुद्रोऽयं तव वशे भविष्यति नदीपतिः॥ 9-16-8(62968)
सोमेन सार्धं च तव हानिवृद्वी भविष्यतः।
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत्॥ 9-16-9(62969)
समागम्य ततः सर्वे वरुणं सागरालयम्।
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा॥ 9-16-10(62970)
अभिषिच्य ततो देवा वरुणं यादसाम्पतिम्।
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्॥ 9-16-11(62971)
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः।
सरितः सागरांश्चैव नदांश्चापि सरांसि च।
पालयामास विधिना यथा देवाञ्शतक्रतुः॥ 9-16-12(62972)
ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु।
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा।
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः॥ 9-16-13(62973)
लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ।
उपतस्थुः सुरा यत्र सर्वलोकपितामहम्॥ 9-16-14(62974)
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे।
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम्॥ 9-16-15(62975)
जनमेजय उवाच। 9-16-16x(5201)
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः॥ 9-16-16(62976)
वैशम्पायन उवाच। 9-16-17x(5202)
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान्।
शमीगर्भमथासाद्य ननाश भगवांस्ततः॥ 9-16-17(62977)
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः।
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः॥ 9-16-18(62978)
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि॥ 9-16-19(62979)
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः।
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः॥ 9-16-20(62980)
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्।
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना॥ 9-16-21(62981)
तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह॥ 9-16-22(62982)
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा।
ससर्ज चान्नानि तथा देवतानां यथाविधि॥ 9-16-23(62983)
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च।
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः॥ 9-16-24(62984)
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः॥ 9-16-25(62985)
तत्रस्थमेव तं राजन्धनानि निधयस्तथा।
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः॥ 9-16-26(62986)
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ।
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे॥ 9-16-27(62987)
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः॥ 9-16-28(62988)
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्॥ 9-16-29(62989)
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः॥ 9-16-30(62990)
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम्।
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च॥ 9-16-31(62991)
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान्।
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः॥ 9-16-32(62992)
निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम्।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम्॥ ॥ 9-16-33(62993)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-16-25 ऐलबिलः कुबेरः॥ 9-16-48 अष्टचत्वारिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.